2023-11-19 19:22:03 by ambuda-bot
This page has not been fully proofread.
१६
स्तोत्रग्रन्थमाला - तृतीयो भागः
कर्तुं भुवनं वाग्भर्तुं भवभाते ।
हर्तुं खलु भद्रा योगामलनिद्रा ॥ ७३ ॥
मेय: शिव सर्वो गोलात्मकलोकः ।
सीमारहितोऽसावेकस्तव नाकः ॥ ७४ ॥
आत्मानमुताहो तातं खचराणाम् ।
आहोस्विदधीशं ध्यायामि सुराणाम् ॥ ७५॥
तं व्योमचराणां जीवं पवमानम् ।
तातं शिवमाहुर्नाथं मघवानम् ॥ ७६॥
अभ्रे विचरन्तं भान्तं निनदन्तम् ।
अस्मत्पितरं तं वन्दे भगवन्तम् ॥७७॥
यान्तं पवमानं भान्तं मघवानम् ।
नाके निनदन्तं गायन्ति शिवं तम् ॥ ७८॥
भातो गननाग्नेर्यातः पवनस्य ।
तारस्य च रूपं नानेकमपापम् ॥ ७७॥
लक्ष्मीपतिसङ्ख्या यावद्रविलोकम् ।
गौरीपतिरेको राजत्यधिनाकम् ॥ ८० ॥
स्तोत्रग्रन्थमाला - तृतीयो भागः
कर्तुं भुवनं वाग्भर्तुं भवभाते ।
हर्तुं खलु भद्रा योगामलनिद्रा ॥ ७३ ॥
मेय: शिव सर्वो गोलात्मकलोकः ।
सीमारहितोऽसावेकस्तव नाकः ॥ ७४ ॥
आत्मानमुताहो तातं खचराणाम् ।
आहोस्विदधीशं ध्यायामि सुराणाम् ॥ ७५॥
तं व्योमचराणां जीवं पवमानम् ।
तातं शिवमाहुर्नाथं मघवानम् ॥ ७६॥
अभ्रे विचरन्तं भान्तं निनदन्तम् ।
अस्मत्पितरं तं वन्दे भगवन्तम् ॥७७॥
यान्तं पवमानं भान्तं मघवानम् ।
नाके निनदन्तं गायन्ति शिवं तम् ॥ ७८॥
भातो गननाग्नेर्यातः पवनस्य ।
तारस्य च रूपं नानेकमपापम् ॥ ७७॥
लक्ष्मीपतिसङ्ख्या यावद्रविलोकम् ।
गौरीपतिरेको राजत्यधिनाकम् ॥ ८० ॥