This page has not been fully proofread.

शिवशतकम्
 
उदितविरोधास्वयुतभिदासु ।
चतसृषु जातिष्वबलतमासु ॥६५॥
 
मुहुरपि लोले क्षितिसुरशीले ।
अजगणकल्पे भुजभवसङ्घे ॥ ६६ ॥
 
चतुरविरोधिव्रजहृतसाराम् ।
अविरतनेत्रस्नुतजलधाराम् ॥ ६७ ॥
 
भरतधरित्रीं भुवननृपालः ।
अवतु दयालुः सितगिरिशालः ॥ ६८ ॥
 
अरुणधरित्रीधर हर दूनाम् ।
भरतधरित्रीमव शिव दीनाम् ॥ ६९ ॥
 
हर भरतक्ष्माजनवरदूतम् ।
कुरु चरितार्थं गणपतिमेतम् ॥ ७० ॥
 
अथाष्टमं तनुमध्यादशकम्
 
पाता भुवनानां धाता च विधाता ।
नेता प्रमथानां त्राता भवतान्नः ॥ ७१।॥
 
कर्ता भुवनानां भर्ताऽपि च हर्ता ।
ख्यातोऽवतु देवस्तातो मरुतां नः ॥७२॥
 
१५