2023-11-19 19:22:02 by ambuda-bot
This page has not been fully proofread.
शिवशतकम्
सुरपतिरितरो न त्वन्मधुरिपुररुणश्चैकः ।
शतधृतिरनलो न द्वौ पुरहर विदितं वेद्यम् ॥ ४९॥
त्वमजर मरुतामात्मा दिनकृतिवसतां विष्णुः ।
इह भुवि भवतां ब्रह्मा पृथगपि पुरुषा यूयम् ॥ ५० ॥
अथ षष्ठमौपच्छन्दसिकदशकम्
जगदेतदनारतं पचन्तं महतोऽस्मादपि पुष्करान्महान्तम् ।
तपसा निरुपाधिकेन गम्यं परमात्मानमजं शिवाख्यमीडे॥५१॥
सदलङकृतियुक्तया सुकान्त्या हृदयाकर्षकभावया गुणज्ञम् ।
शिवमीशमहं गिरोपतिष्ठे नृपतिं कन्यकयेव वैभवार्थी ॥ ५२ ॥
मम मङ्गलमातनोतु भास्वत्करधौताहरितः शुचीर्वसानः।
शशिना मुकुटी दिवा जटावांस्तिलकीहव्यभुजा विभुर्विभूनाम् ॥ ५३॥
अपि निष्करुणस्य मानसं चेद्रवति प्रार्थनयेह दुर्गतानाम् ।
करुणावरुणालयस्य चित्ते भवतः को भव संशयं विधत्ते ॥ ५४॥
स्मरणे तव सञ्चलन्ति यूथान्युरुकीर्ते हृदयान्मनोरथानाम् ।
अनिवार्यगतीनि शीतभानोरवलोके जलधेर्यथा जलानि ॥५५॥
परिणीतिगृहे महेशपूर्णे परितो बन्धुजनैर्वरस्य साम्यम् ।
हृदये परिपूरितेऽत्र कामैस्तव पादस्तु जपे दधाति मृग्यः ॥ ५६॥
१३