This page has not been fully proofread.

१२
 
स्तोत्रग्रन्थमाला - तृतीयो भागः
 
अथ पञ्चमं भुजगशिशुभृतादशकम्
 
अभयवरवतः पाण्योरमृतकरवतो मौलौ ।
अखिलभुवनसम्राजश्चरणसरसिजं सेवे ॥ ४१॥
 
तव गरलवतः कण्ठाद्विगलति यदि पीयूषम् ।
अभयमजर नो चित्रं भुजगवलयितात्पाणेः ॥ ४२ ॥
 
निजविषयपरं वित्तं शिवचरणपरं चित्तम् ।
इह जगति सतां येषां जयति चरितमेतेषाम् ॥ ४३ ॥
 
भुवनजनककारुण्यान्न किमपि परमाप्तव्यम् ।
प्रसरति यदि तत्पूर्णं सकलमपि च सम्पूर्णम् ॥ ४४ ॥
 
जगदिदमतिदौर्गुण्यं विषयविषधरारण्यम् ।
हर तव चरणध्यानं वरमति कुसुमोद्यानम् ॥ ४५॥
 
शुचितरहृदयाङ्गारो नयनरुचिशिखोद्दीप्तः ।
परमशिवविमर्शाग्निः प्रभवति दुरितं दग्धुम् ॥ ४६ ॥
 
असि भुवि भव हव्याशी हर नभसि शचीनाथः ।
दिवि मृड महसामीशो जयसि च शिव सद्रूपः ॥ ४७॥
 
इह तव महिषीधेनुर्नभसि सहचरी शक्तिः ।
उपरि तु ललना छाया त्रयमिदमखिलाराध्यम् ॥ ४८ ॥