2026-01-24 15:40:51 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore lang="sa">शिवशतकम्
</ignore>
<verse lang="sa">कर्तुं काव्यानि नव्यानि व्यसनं रसने यदि ।
न किं सन्ति चरित्राणि पवित्राणि पिनाकिनः ॥ ३२॥
</verse>
<verse lang="sa">सुतरां सुलभो मोक्षः कीर्तनात्कृत्तिवाससः ।
उपायमविदित्वैतमपायं यान्ति जन्तवः ॥ ३३ ॥
</verse>
<verse lang="sa">सुधाघटोऽधरः स्त्रीणां सुधातोयधरः कविः ।
सुधातरङ्गमाली ते नामध्वनिरुमापते ॥ ३४ ॥
</verse>
<verse lang="sa">किञ्चिदस्त्यधरे स्त्रीणां सुधायामस्ति वा न वा ।
माधुर्यमन्धकारातेर्नामधेये विशेषतः ॥ ३५ ॥
</verse>
<verse lang="sa">अस्माकमाकुलं पापैः प्रायश्चित्तं विदूयते ।
हरसङ्कीर्तनं तेषां प्रायश्चित्तं विधीयते ॥ ३६॥
</verse>
<verse lang="sa">शम्भोरम्भोरुहाकारं चरणं शरणं सताम् ।
अंहःसंहारमाधातुं नमतेः कर्म कुर्महे ॥ ३७॥
</verse>
<verse lang="sa">पाप दूरमितो याहि समाप्ता ते मयि स्थितिः ।
पदपद्मं पुरारातेः साम्प्रतं सम्प्रणम्यते ॥ ३८ ॥
</verse>
<verse lang="sa">करणे सर्वसौख्यानां हरणे वाऽखिलैनसाम् ।
नास्ति मे मदनारातेः पदनालीकतः परम् ॥ ३९ ॥
</verse>
<verse lang="sa">पारिजातमहेशाञङङ्घ्री दातारौ भवतः समौ ।
उद्ग्रीवैः प्राप्यते तस्मान्नतग्रीवैरितः फलम् ॥ ४०॥
</verse>
<ignore lang="sa">११
</ignore>
</page>
<ignore lang="sa">शिवशतकम्
<verse lang="sa">कर्तुं काव्यानि नव्यानि व्यसनं रसने यदि ।
न किं सन्ति चरित्राणि पवित्राणि पिनाकिनः ॥ ३२॥
<verse lang="sa">सुतरां सुलभो मोक्षः कीर्तनात्कृत्तिवाससः ।
उपायमविदित्वैतमपायं यान्ति जन्तवः ॥ ३३ ॥
<verse lang="sa">सुधाघटोऽधरः स्त्रीणां सुधातोयधरः कविः ।
सुधातरङ्गमाली ते नामध्वनिरुमापते ॥ ३४ ॥
<verse lang="sa">किञ्चिदस्त्यधरे स्त्रीणां सुधायामस्ति वा न वा ।
माधुर्यमन्धकारातेर्नामधेये विशेषतः ॥ ३५ ॥
<verse lang="sa">अस्माकमाकुलं पापैः प्रायश्चित्तं विदूयते ।
हरसङ्कीर्तनं तेषां प्रायश्चित्तं विधीयते ॥ ३६॥
<verse lang="sa">शम्भोरम्भोरुहाकारं चरणं शरणं सताम् ।
अंहःसंहारमाधातुं नमतेः कर्म कुर्महे ॥ ३७॥
<verse lang="sa">पाप दूरमितो याहि समाप्ता ते मयि स्थितिः ।
पदपद्मं पुरारातेः साम्प्रतं सम्प्रणम्यते ॥ ३८ ॥
<verse lang="sa">करणे सर्वसौख्यानां हरणे वाऽखिलैनसाम् ।
नास्ति मे मदनारातेः पदनालीकतः परम् ॥ ३९ ॥
<verse lang="sa">पारिजातमहेशाञ