2023-11-19 19:22:02 by ambuda-bot
This page has not been fully proofread.
शिवशतकम्
कर्तुं काव्यानि नव्यानि व्यसनं रसने यदि ।
न किं सन्ति चरित्राणि पवित्राणि पिनाकिनः ॥ ३२॥
सुतरां सुलभो मोक्षः कीर्तनात्कृत्तिवाससः ।
उपायमविदित्वैतमपायं यान्ति जन्तवः ॥ ३३ ॥
सुधाघटोऽधरः स्त्रीणां सुधातोयधरः कविः ।
सुधातरङ्गमाली ते नामध्वनिरुमापते ॥ ३४ ॥
किञ्चिदस्त्यधरे स्त्रीणां सुधायामस्ति वा न वा ।
माधुर्यमन्धकारातेर्नामधेये विशेषतः ॥ ३५ ॥
अस्माकमाकुलं पापैः प्रायश्चित्तं विदूयते ।
हरसङ्कीर्तनं तेषां प्रायश्चित्तं विधीयते ॥ ३६॥
शम्भोरम्भोरुहाकारं चरणं शरणं सताम् ।
अंहःसंहारमाधातुं नमतेः कर्म कुर्महे ॥ ३७॥
पाप दूरमितो याहि समाप्ता ते मयि स्थितिः ।
पदपद्मं पुरारातेः साम्प्रतं सम्प्रणम्यते ॥ ३८ ॥
करणे सर्वसौख्यानां हरणे वाऽखिलैनसाम् ।
नास्ति मे मदनारातेः पदनालीकतः परम् ॥ ३९ ॥
पारिजातमहेशाञङघ्री दातारौ भवतः समौ ।
उद्ग्रीवैः प्राप्यते तस्मान्नतग्रीवैरितः फलम् ॥ ४०॥
११