This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
स्तोत्रग्रन्थमाला - तृतीयो भागः
 
</ignore>
<verse lang="sa">
तत्किल प्रभवति क्षितेर्जगत्यन्तरिक्षभुवनेऽथवा दिवि ।

कर्तुमप्रतिममात्मगोचरं मौलिभूतमकृतात्मनामपि ॥ २४ ॥
 
</verse>
<ignore lang="sa">
१०
 
</ignore>
<verse lang="sa">
तस्य शक्तिररिलोकदुःसहा तस्य सिद्धिरणिमादिशालिनी ।

तस्य सम्पदखिलात्मभावदा यं विशोधयति दृष्टिरीशितुः ॥ २५ ॥
 
</verse>
<verse lang="sa">
याचकः पदसरोजकिङ्करो वीक्षितेन खलु साध्यमीप्सितम् ।

अत्र चेद्भव भवान्पराङ्मुखो निर्दयेषु गणना भवेत्तव ॥ २६ ॥
 
</verse>
<verse lang="sa">
दृष्टिदानविमुखेन किं त्वया दीयते निजमनामयं पदम् ।

किं ददाति हर सर्वमापणं विण्णिशाशकलदानदुर्मनाः ॥ २७ ॥
 
</verse>
<verse lang="sa">
किं नु संलपसि शैलकन्यया नन्दिना किमु करोषि भाषणम् ।

सर्वलोकजनकप्रभो कुतो नार्भकस्य रुदितं निशम्यते ॥ २८ ॥
 
</verse>
<verse lang="sa">
संस्तुतो न च दधासि सम्मदं दूषितो न च महेश लज्जसे ।

अप्यहं चतुरभाषणः कविः किं करोमि विगुणस्य ते पुरः ॥ २९॥
 
</verse>
<verse lang="sa">
पाहि वा पशुपते जहीहि वा जीवनं तव पदोः समर्पितम् ।

देहि वा विमुखतामुपेहि वा प्रार्थये किमपि नाथ नापरम् ॥ ३०॥
 
</verse>
<heading lang="sa">
अथ चतुर्थं पथ्यावक्त्रदशकम्
 
</heading>
<verse lang="sa">
किं घोषं कुरुषे द्वारि देहि देहीति भूभुजाम् ।

रसने हर गौरीश पाहि पाहीति गीयताम् ॥ ३१ ॥
 
</verse>
</page>