This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
शिवशतकम्
 
</ignore>
<verse lang="sa">
भव्यं क्रियाद्वो भवमौलिरङ्गाद्भागीरथीभङ्गभवः समीरः ।

ललाटलोलानलकानरालानुत्सारयन्यो भजते भवानीम् ॥ १६ ॥
 
</verse>
<verse lang="sa">
आमन्त्र्य गौरीमुखगन्धवाहमाभाष्य नागाननकर्णवातम् ।

चलन्नितः शर्वशिरः स्रवन्ती समीरणः सर्वहिताय भूयात् ॥ १७ ॥
 
</verse>
<verse lang="sa">
मुदे सतां कैरवबन्धुमौलिमौलिस्रवन्ती मरुतोऽस्तु गानम् ।

औशीनरं यो यशसाऽत्यशेत भूषाऽहयेऽन्नं सकलोऽपि भूत्वा ॥ १८ ॥
 
</verse>
<verse lang="sa">
भूषेन्दुरेखाकिरणैर्विभक्तैर्भङ्गावलीषु द्विगुणीकृताऽऽभा ।

भवस्य मौलिं परितश्चरन्ती भागीरथी वो विदधातु भद्रम् ॥ १९ ॥
 
</verse>
<verse lang="sa">
करारविन्दे गिरिशस्य खेलन् कुरङ्गबालः कुशलं क्रियाद्वः ।

विश्वस्य धात्री नगराजपुत्री यस्मादधीते तरलेक्षितानि ॥२०॥
 
</verse>
<heading lang="sa">
अथ तृतीयं रथोद्धतादशकम्
 
</heading>
<verse lang="sa">
निर्जरस्तुतिकथाप्रसङ्गतो दक्षिणं श्रवणमद्रिजापते ।

दीनबान्धव निवर्तय क्षणं घोषमेष कुरुते पदानतः ॥ २१॥
 
</verse>
<verse lang="sa">
पश्य देव सकृदेतमर्भकं शीतदीधितिमयेन चक्षुषा ।

तेन सिध्यति परोपकारिता लोकतात तव काऽपि न क्षतिः ॥ २२ ॥
 
</verse>
<verse lang="sa">
अम्बराणि हरिदम्बरादहं हर्म्यजालमगसानुवासिनः ।

नो वृणोमि कनकं च भिक्षुकादर्थये सदयमेव वीक्षितम् ॥ २३ ॥
 
</verse>
</page>