This page has not been fully proofread.

स्तोत्रग्रन्थमाला - तृतीयो भागः
 
रुधिरार्द्रमजिनमंसे परितोऽङ्गानि श्मशानभसितरजः ।
कण्ठे कपालमाला वेषोऽयं यस्य दुरवगाहार्थः ॥ ८ ॥
 

 
भुवनं झरैः कतिपयैरावृण्वाना युगान्तमिव कर्तुम् ।
यस्य जटापटलमिता गङ्गा नाचकार कोणमपि ॥९॥
 
हित्वा मानसशालां विज्ञानमयेऽवतीर्य निजरूपे ।
आनन्दं पश्यन्तो यं मुनयो यान्ति संसृतेः पारम् ॥ १० ॥
 
अथ द्वितीयं उपजातिदशकम्
 
उमावपुः सौरभमुद्गिरन्तो भूषेन्दुपीयूषकणान् किरन्तः।
भूतेशचूडासरितस्तवाशु भूयासुरायासहराः समीराः ॥११॥
 
मुहुर्मुहुर्दिक्षु वमन्नपर्णा धम्मिल्लसन्तानलतान्तगन्धम् ।
दुःखानि वो धूर्जटिजाटजूटस्रोतस्विनी वातशिशुर्धुनोतु ॥ १२ ॥
 
आश्लिष्य पीयूषमयूखरेखां गाढं जगद्राजजटानिकुञ्जे ।
बहिः शनैः सञ्चलितः सुखं वः सुरस्रवन्ती पवनस्तनोतु ॥ १३ ॥
 
स्वेदं हरन्नङ्गभवं गणानां दिने दिनेऽङ्गीकृतताण्डवानाम् ।
युष्माकमेनांसि महेशमौलिमन्दाकिनीमन्दमरुद्धुनोतु ॥ १४ ॥
 
स्विद्यन्ति ते कन्दुककेलिसङ्गादङ्गानि मातङ्गमुखस्य मातुः ।
चिरं भजन्तः शिवशीर्षगङ्गाभङ्गानिलाः शान्तिमितो भणन्तु ॥ १५॥