2026-01-24 15:09:26 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<title lang="sa">शिवशतकम्
</title>
<heading lang="sa">प्रथमं गीतिदशकम्
</heading>
<verse n="1" lang="sa">श्रियमातनोतु सुकृतं पुष्णातु ततान्यघानि मुष्णातु ।
दिशतु च भूयो भूयस्तव भगवानष्टमूर्तिरिष्टानि ॥१॥
</verse>
<verse lang="sa">प्रकृतिस्वयंवरपतेर्यस्य जटाः शेखरेन्दुकपटेन ।
प्रहसन्ति देवयूनां कल्पस्रगलङङ्कृतान् कचकलापान् ॥२॥
</verse>
<verse lang="sa">वामार्धाधरदंशनवलितायां दक्षिणार्धरदपङ्कौक्तौ ।
यस्य विलक्षणमास्यं विलोक्य विजयाऽऽस विकसितकपोला ॥ ३ ॥
</verse>
<verse lang="sa">हा तनय हा सुते हा प्रिये हतोऽस्म्येष चेति मुखरस्य ।
जगतो दशैव तेने सन्तापं यस्य न गरलं पीतम् ॥ ४ ॥
</verse>
<verse lang="sa">यस्य परुषाट्टहाासज्वलनेनैवाशिते पुरत्रितये ।
आत्मन्येव पृषत्को जज्वाल निरामिषो द्विषन्नसुरान् ॥ ५॥
</verse>
<verse lang="sa">जनयन्ति ह्रियमेव त्रिभुवनसंहारशक्तिनाथस्य ।
यस्यान्धकादिनिर्जयकथानकान्यमरसमितिगीतानि ॥ ६ ॥
</verse>
<verse lang="sa">यस्य स्मरापराधादुज्झितनिद्रे ललाटजुषि नयने ।
गणयामास विधाता युगान्यतीतानि वेपमानकरः ॥७॥
</verse>
</page>
<title lang="sa">शिवशतकम्
<heading lang="sa">प्रथमं गीतिदशकम्
<verse n="1" lang="sa">श्रियमातनोतु सुकृतं पुष्णातु ततान्यघानि मुष्णातु ।
दिशतु च भूयो भूयस्तव भगवानष्टमूर्तिरिष्टानि ॥१॥
<verse lang="sa">प्रकृतिस्वयंवरपतेर्यस्य जटाः शेखरेन्दुकपटेन ।
प्रहसन्ति देवयूनां कल्पस्रगल
<verse lang="sa">वामार्धाधरदंशनवलितायां दक्षिणार्धरदपङ्