This page has not been fully proofread.

शिवशतकम्
 
प्रथमं गीतिदशकम्
 
श्रियमातनोतु सुकृतं पुष्णातु ततान्यघानि मुष्णातु ।
दिशतु च भूयो भूयस्तव भगवानष्टमूर्तिरिष्टानि ॥१॥
 
प्रकृतिस्वयंवरपतेर्यस्य जटाः शेखरेन्दुकपटेन ।
प्रहसन्ति देवयूनां कल्पस्रगलङकृतान् कचकलापान् ॥२॥
 
वामार्धाधरदंशनवलितायां दक्षिणार्धरदपङ्कौ ।
यस्य विलक्षणमास्यं विलोक्य विजयाऽऽस विकसितकपोला ॥ ३ ॥
 
हा तनय हा सुते हा प्रिये हतोऽस्म्येष चेति मुखरस्य ।
जगतो दशैव तेने सन्तापं यस्य न गरलं पीतम् ॥ ४ ॥
 
यस्य परुषाट्टहाासज्वलनेनैवाशिते पुरत्रितये ।
आत्मन्येव पृषत्को जज्वाल निरामिषो द्विषन्नसुरान् ॥ ५॥
 
जनयन्ति ह्रियमेव त्रिभुवनसंहारशक्तिनाथस्य ।
यस्यान्धकादिनिर्जयकथानकान्यमरसमितिगीतानि ॥ ६ ॥
 
यस्य स्मरापराधादुज्झितनिद्रे ललाटजुषि नयने ।
गणयामास विधाता युगान्यतीतानि वेपमानकरः ॥७॥