2023-11-19 19:22:00 by ambuda-bot
This page has not been fully proofread.
स्तोत्रग्रन्थमाला - तृतीयो भागः
जन्मस्थानमवाप्य गुप्तमहमो यो भेदमाधूतवान्
भूतानां चरतां पृथग्विधधियामात्मैव यो भासते ।
देहं सर्वमिदं जगच्च विभवादाक्रम्य यः प्रोल्लस-
त्येकस्तं गुरुमूर्तिमानमत रे लम्बोदरभ्रातरम् ॥ २२॥
४
अन्तर्यश्च बहिर्विधूततिमिरं ज्योतिर्मयं शाश्वतं
स्थानं प्राप्य विराजते विनमतामज्ञानमुन्मूलयन् ।
पश्यन्विश्वमपीदमुल्लसति यो विश्वस्य पारे पर-
स्तस्मै श्रीरमणाय लोकगुरवे शोकस्य हन्त्रे नमः ॥ २३ ॥
प्रसरतादितः शुभविलोकितम् ।
रमण ते सकृत्फलतु मे कृतम् ॥ २४ ॥
रमण जन्मिनामयि भवान् गुरुः ।
अभिद आशयस्तव महानुरुः ॥ २५ ॥
जगदहं परः स्फुरति मे त्रयम् ।
सदभिदं गिरा तव विसंशयम् ॥ २६॥
त्वदुपदेशतो गलति संविदा ।
मयि निरन्यया सदहमोभिंदा ॥ २७ ॥
अहमि योऽन्तरस्तममलं हृदि ।
अनुभवेम भोस्तव कृपा यदि ॥ २८ ॥
न करुणा गुणस्तव विदां पते ।
हृदयतेजसः सहजभैवते ॥ २९ ॥