2023-11-19 19:21:58 by ambuda-bot
This page has not been fully proofread.
श्रीरमणचत्वारिंशत्
वन्दे श्रीरमणर्षेराचार्यस्य पदाब्जम् ।
यो मेऽदर्शयदीशं भान्तं ध्वान्तमतीत्य ॥ १ ॥
कथया निजया कलुषं हरता करुणानिधिनाऽरुणशैलजुषा ।
खगवाहनभाषिततत्त्वविदा वृषवाहनमौनरहस्यभृता ॥ २ ॥
गणराण्मुखसूरिसभागुरुणा गुणसञ्चयरत्नमहोदधिना ।
घनगूढसहस्रकरेण यथा तनुकञ्चुकगुप्तमहामहसा ॥ ३ ॥
चतुरेण चलेन्द्रियनिग्रहणे पटुना परकीयगुणग्रहणे ।
छलवर्जितमौनसमाधिजुषा बलतर्जितभीकरकामरुषा ॥४॥
जठरं समये परिपूरयता कठिनं व्रतमद्रितटे चरता ।
झषकेतनशस्त्रदुरापहृदा कृषिमात्मविबोधविधौ दधता ॥५॥
भवभीकरवारिनिधिं तरता करतामरसेन सुपात्रवता ।
स्वदृशाऽधिकशीतलकान्तिभृता भयमङघ्रिसरोजजुषां हरता ॥ ६ ॥
नमतामतिभक्तिमतां निधिना घनतापविधूननसन्निधिना ।
यतिधर्मततिं परिपालयता परितश्च तमो विनिवारयता ॥७॥
फणिनायकवर्ण्यगुणौघभृता भणितीः प्रियसत्यहिता भणता ।
बहुमानवशादयता सुखितामवमानततेरविदूनवता ॥ ८ ॥