2023-11-19 19:22:31 by ambuda-bot
This page has not been fully proofread.
१२६
स्तोत्रग्रन्थमाला - तृतीयो भागः
दृश्ये विश्वतनुं पारे निर्वपुषम् ।
गायामः परमं भञक्तज्ञानपुषम् ॥९॥
अष्टौ ते तनवः त्रातर्विश्वमिदम्
वक्त्येतद्भवते माहात्म्यं विशदम् ॥ १० ॥
सर्वेषां जगतां माता देवनुता ।
ईशान त्रिगुणा माया ते दयिता ॥ ११ ॥
शक्त्यासौ भुवनं सृष्ट्वा पातुमिदम् ।
हैमं दिव्यवपुर्जग्राहाभयदम् ॥१२॥
सूक्ष्मं स्यादगुणं हैमं स्यात्सगुणम् ।
देवस्यादिविभोरेवं द्वे वपुषी ॥ १३ ॥
भाषामात्रवपुः पूर्वं स्यादवपुः ।
अन्यद्बुद्धिमतां ध्यानग्राह्यवपुः ॥१४॥
बिभ्रद्भाति जगत्साम्राज्यं गगने ।
हैमोऽसौ पुरुषः सिद्धानां भुवने ॥१५॥
इन्द्रो वेदविदां भाषायां सपरः ।
नाथस्तन्त्रविदां व्याहारेषु हरः ॥ १६ ॥
प्रत्युष्णांशुतया तन्वा बिम्बितया ।
प्रत्यण्डं प्रभुतां धत्ते सोऽद्भुतया ॥ १७ ॥
स्तोत्रग्रन्थमाला - तृतीयो भागः
दृश्ये विश्वतनुं पारे निर्वपुषम् ।
गायामः परमं भञक्तज्ञानपुषम् ॥९॥
अष्टौ ते तनवः त्रातर्विश्वमिदम्
वक्त्येतद्भवते माहात्म्यं विशदम् ॥ १० ॥
सर्वेषां जगतां माता देवनुता ।
ईशान त्रिगुणा माया ते दयिता ॥ ११ ॥
शक्त्यासौ भुवनं सृष्ट्वा पातुमिदम् ।
हैमं दिव्यवपुर्जग्राहाभयदम् ॥१२॥
सूक्ष्मं स्यादगुणं हैमं स्यात्सगुणम् ।
देवस्यादिविभोरेवं द्वे वपुषी ॥ १३ ॥
भाषामात्रवपुः पूर्वं स्यादवपुः ।
अन्यद्बुद्धिमतां ध्यानग्राह्यवपुः ॥१४॥
बिभ्रद्भाति जगत्साम्राज्यं गगने ।
हैमोऽसौ पुरुषः सिद्धानां भुवने ॥१५॥
इन्द्रो वेदविदां भाषायां सपरः ।
नाथस्तन्त्रविदां व्याहारेषु हरः ॥ १६ ॥
प्रत्युष्णांशुतया तन्वा बिम्बितया ।
प्रत्यण्डं प्रभुतां धत्ते सोऽद्भुतया ॥ १७ ॥