2023-11-19 19:22:30 by ambuda-bot
This page has not been fully proofread.
१२४
स्तोत्रग्रन्थमाला - तृतीयो भागः
दशशतच्छदस्थितमनाः सदा ।
अनुभवेन्महोमहददो मुदा ॥ १३ ॥
भवति निष्ठितो यदि चतुष्पथे ।
महसि लीयते धृतजगत्कथे ॥१४॥
अयि विचिन्तय स्ववपुरुत्तरम् ।
वशमितं भवेत्तव महत्तरम् ॥ १५ ॥
परमशक्तये स्ववपुरर्प्यताम् ।
अयि किमद्भुतं भवति दृश्यताम् ॥१६॥
करणशक्तिवित्कृतिषु राजते ।
गमनशक्तिविद्गतिषु शोभते ॥ १७ ॥
श्रवणशक्तिविच्छ्रुतिषु न स्खलेत् ।
मननशक्तिविन्मतिषु नो पतेत् ॥ १८ ॥
अतुलसिद्धिदानिह पृथग्विधान् ।
मुनिवरोऽभ्यधादिति तपः पथान् ॥ १९ ॥
बहुलयोगिवाङ्मथनतोऽमृतम् ।
अनुभवक्षमं तदिदमाहृतम् ॥ २० ॥
गीतमाला समाप्ता
स्तोत्रग्रन्थमाला - तृतीयो भागः
दशशतच्छदस्थितमनाः सदा ।
अनुभवेन्महोमहददो मुदा ॥ १३ ॥
भवति निष्ठितो यदि चतुष्पथे ।
महसि लीयते धृतजगत्कथे ॥१४॥
अयि विचिन्तय स्ववपुरुत्तरम् ।
वशमितं भवेत्तव महत्तरम् ॥ १५ ॥
परमशक्तये स्ववपुरर्प्यताम् ।
अयि किमद्भुतं भवति दृश्यताम् ॥१६॥
करणशक्तिवित्कृतिषु राजते ।
गमनशक्तिविद्गतिषु शोभते ॥ १७ ॥
श्रवणशक्तिविच्छ्रुतिषु न स्खलेत् ।
मननशक्तिविन्मतिषु नो पतेत् ॥ १८ ॥
अतुलसिद्धिदानिह पृथग्विधान् ।
मुनिवरोऽभ्यधादिति तपः पथान् ॥ १९ ॥
बहुलयोगिवाङ्मथनतोऽमृतम् ।
अनुभवक्षमं तदिदमाहृतम् ॥ २० ॥
गीतमाला समाप्ता