This page has not been fully proofread.

गीतमाला
 
निजविलोकितं यदि निभाल्यते ।
विषयसङ्गिता क्व नु विभा ॥४॥
 
नयनदृश्ययोर्गगनमन्तरम् ।
समवलोकयन् भज विभुं परम् ॥५॥
 
विषयवर्जनाद्विषयिणि स्थिरे ।
सकलसिद्धयो यतधियः करे ॥ ६ ॥
 
रसननीरगे मनसि सन्ततम् ।
करगतं सुखं भवति निश्चितम् ॥७॥
 
गमय मस्तकात्कुलगृहानलम् ।
अवतरन्निव स्मृतिमिदं त्वलम् ॥८॥
 
स्मरणसर्पिषा कुलगृहे शिखी ।
ज्वलति यस्य स क्षितितले मखी ॥९॥
 
यदि शशी द्रवेत्कुलशिखित्विषा ।
अमृततः शमं व्रजति नस्तृषा ॥ १० ॥
 
चलतमं मनः प्रशममेति नः ।
स्मरणयुक्तया श्वसितयात्रया ॥ ११॥
 
निजचितिस्मृतिर्यदि न विच्युता ।
भवति योगिता सुलभसाधिता ॥ १२ ॥
 
१२३