2023-11-19 19:22:29 by ambuda-bot
This page has not been fully proofread.
१२२
स्तोत्रग्रन्थमाला - तृतीयो भागः
यातायातविहारैराधारेषु च शीर्षे ।
सञ्चारं विदधानं किञ्चाशेषविसारि ॥१३॥
आलम्बेन विहीनं व्योमाभं परिपूर्णम् ।
निःशब्दं गुरुरूपं तद्ब्रह्म स्फुरतान्मे ॥१४॥
ज्ञानं भाति परोक्षं यत्तत्त्वश्रवणेन ।
यत्साङ्गत्यविशेषो हेतुः स्यादपरोक्षे ॥ १५ ॥
यच्चिन्ता स्थिरमुक्त्यै ब्रह्मैतद्रमणाख्यम् ।
मामावृत्य समन्तादानन्दे निदधातु ॥ १६ ॥
तारानन्दनियुक्तः प्रीत्या तस्य मतेन ।
आधाद्दीप्तगभीरं वासिष्ठो गुरुगीतम् ॥१७॥
दशमं योगसारगीतम्
निशितया धिया हृदि निभालनम् ।
भुवनभूपतेर्भवनशोधनम् ॥१॥
दहरमज्जनं विदधतं जनम् ।
बहुलसम्मदं नयति धीः पदम् ॥ २॥
अहमिति स्मृतेर्व्रज जनिस्थलम् ।
भवकथानकं गलति तेऽखिलम् ॥ ३॥
स्तोत्रग्रन्थमाला - तृतीयो भागः
यातायातविहारैराधारेषु च शीर्षे ।
सञ्चारं विदधानं किञ्चाशेषविसारि ॥१३॥
आलम्बेन विहीनं व्योमाभं परिपूर्णम् ।
निःशब्दं गुरुरूपं तद्ब्रह्म स्फुरतान्मे ॥१४॥
ज्ञानं भाति परोक्षं यत्तत्त्वश्रवणेन ।
यत्साङ्गत्यविशेषो हेतुः स्यादपरोक्षे ॥ १५ ॥
यच्चिन्ता स्थिरमुक्त्यै ब्रह्मैतद्रमणाख्यम् ।
मामावृत्य समन्तादानन्दे निदधातु ॥ १६ ॥
तारानन्दनियुक्तः प्रीत्या तस्य मतेन ।
आधाद्दीप्तगभीरं वासिष्ठो गुरुगीतम् ॥१७॥
दशमं योगसारगीतम्
निशितया धिया हृदि निभालनम् ।
भुवनभूपतेर्भवनशोधनम् ॥१॥
दहरमज्जनं विदधतं जनम् ।
बहुलसम्मदं नयति धीः पदम् ॥ २॥
अहमिति स्मृतेर्व्रज जनिस्थलम् ।
भवकथानकं गलति तेऽखिलम् ॥ ३॥