This page has not been fully proofread.

गीतमाला
 
ज्ञात्वा तत्त्वमसङ्गा भासा यस्य रमन्ते ।
यज्जालेन समस्ते द्वैतेक्षाल्पमतीनाम् ॥ ४ ॥
 
यद्ध्यानेन भवन्ति स्वात्मानन्दनिमग्नाः ।
यन्निष्ठा खलु मुक्तिर्यच्छन्दोऽपि तदर्थः ॥ ५॥
 
तद्ब्रह्म प्रणवाख्यं चित्ते ध्यानकृते मे ।
अश्रान्तं रमणाख्यां विभ्रद्भातु मदिष्टाम् ॥ ६॥
 
आधारे धृतमूलं हार्दाब्जे कृतवासम् ।
शीर्षाब्जाय वहद्यत्पश्चादिन्द्रियशक्त्यै ॥ ७॥
 
दृष्ट्यां तत्र पराच्यां यद्देहभ्रमकारि ।
आवृत्तं तु पुनर्यत्स्वात्मैक्यानुभवाय ॥ ८ ॥
 
पश्यद्वा विषयौघं विश्रान्तं यदुताहो ।
मुक्त्यै संस्थितमन्तर्वृत्त्यैक्यानुभवेन ॥९॥
 
आत्मज्योतिरिदं मे बिभ्राणं रमणाख्यम् ।
अश्रान्तं स्फुरतात्तच्छुद्धं हार्दसरोजे ॥१०॥
 
यद्दीपाद्रमणाख्याद्व्याप्तं गाणपतीषु ।
वाणीभित्तिषु धत्ते गीताचित्रविलासम् ॥ ११ ॥
 
यद्धन्ति च्छविजालैरज्ञानां तिमिराणि ।
तत्तत्त्वं स्फुरताद्वस्तारध्यानसमाधौ ॥१२॥
 
१२१