This page has not been fully proofread.

१२०
 
स्तोत्रग्रन्थमाला - तृतीयो भागः
 
किङ्करीभवत्सुरविलासिनी ।
जयति कुण्डलीनगरवासिनी ॥ २४ ॥
 
मधुरमम्ब ते चरणपङ्कजम् ।
तत्र यद्रतैस्त्यज्य तेऽखिलम् ॥ २५ ॥
 
चरणमम्ब ते चरतु मे हृदि ।
इयमनामये प्रार्थना मम ॥ २६ ॥
 
भुजगकङ्कणप्रभृतिसंस्तुते ।
भुजभुवामरेर्जननि पाहि माम् ॥२७॥
 
कुण्डलीपुरीमण्डनायिता ।
गणपतिस्तुता जयति रेणुका ॥ २८ ॥
 
नवमं गुरुगीतम्
 
अव्यक्ताद्यत एतद्व्यक्तं जातमशेषम् ।
यद्धत्ते तदजस्त्रं यत्रान्ते लयमेति ॥ १ ॥
 
आधारे खलु यस्मिन् गोलानां सह लक्षैः ।
ब्रह्याण्डं प्रतितिष्ठत्येतन्निस्तुलसत्त्वे ॥२॥
 
सूर्यादिग्रहभासां यन्मूलं घनतेजः ।
यद्ब्रह्मादिसुराणां शक्त्यै शक्तिरुताहो ॥ ३ ॥