This page has not been fully proofread.

गीतमाला
 
तत्त्ववादिनः सत्त्वशालिनि ।
त्वामजे विदुः सत्स्वरूपिणीम् ॥ १५ ॥
 
त्वां प्रचक्षते सदयवीक्षिते ।
वेदवेदिनो मोदरूपिणीम् ॥ १६ ॥
 
संविदं विदुस्त्वामिदं प्रसु ।
परमयोगिनः परमदेवते ॥ १७ ॥
 
जननि कुण्डलीपुरनिवासिनि ।
परशुरामवत् पश्य मामिमम् ॥ १८ ॥
 
तनयरोदनं श्रवणशालिनि ।
शृणु सुरार्चिते यदि दया हृदि ॥ १९ ॥
 
याचकः सुतो भजनमीप्सितम् ।
तदपि दुर्लभं किमिदमम्बिके ॥२०॥
 
मास्तु
 
वेतनं छिन्नमस्तके ।
भजनमेव ते याच्यते मया ॥ २१ ॥
 
तरलतारया जलजदीर्घया ।
 
सानुकम्पया शीतपातया ॥२२॥
 
केवलं दृशा पश्य रेणुके ।
तेन मे शुभं न च तवाशुभम् ॥ २३ ॥
 
११९