This page has not been fully proofread.

गीतमाला
 
सोमं पीत्वा पुष्टं दैवं द्विषतो हत्वा हृष्टं दैवम् ।
भुवनप्रलये शिष्टं दैवं सर्वपदार्थोत्कृष्टं दैवम् ॥ १५ ॥
 
कौलाचारिषु माद्यद्दैवं समयाचारिषु शान्तं दैवम् ।
योगाचारिषु पीनं दैवं ज्ञानाचारिषु लीनं दैवम् ॥१६॥
 
कामविरोधि कलत्रं दैवं गणपषडाननपुत्रं दैवम् ।
पापविदारि पवित्रं दैवं जयति मुनिस्तुतिपात्रं दैवम् ॥ १७ ॥
 
अष्टमं रेणुकागीतम्
 
सुरशिरश्चरच्चरणरेणुका ।
जगदधीश्वरी जयति रेणुका ॥१॥
 
देवताशिरोदेशलालितम् ।
रेणुकापदं दिशतु मे मुदम् ॥ २॥
 
कुण्डलीपुरीमण्डनं महः ।
किमपि भासतां मम सदा हृदि ॥ ३ ॥
 
मस्तकैतवं वस्तु शाश्वतम् ।
अस्ति मे सदा शस्तदं हृदि ॥ ४ ॥
 
आदिनारि ते पादपङ्कजम् ।
स्फुरतु मे मनःसरसि सर्वदा ॥५॥
 
११७