2023-11-19 19:22:28 by ambuda-bot
This page has not been fully proofread.
स्तोत्रग्रन्थमाला - तृतीयो भागः
चालकमवनेः शक्त्या दैवं शम्पाद्वारा दृश्यं दैवम् ।
दोग्ध्रीमनुवरवाच्यं दैवं विदधद्विनतमशोच्यं दैवम् ॥६॥
११६
शैले शैले विहरद्दैवं विपिने विपिने विचरद्दैवम् ।
ग्रामे ग्रामे ख्यातं दैवं नगरे नगरे प्रथितं दैवम् ॥ ७॥
परितो व्योम्नि निराकृति दैवं स्वर्गे पौलोम्याकृति दैवम् ।
हिमवति गौरीरूपं दैवं तनुषु प्राणाकारं दैवम् ॥ ८॥
अर्धं सुरगिरिधनुषो दैवं भुवनत्रितये पूर्णं दैवम् ।
हृदि भूतानां किञ्चिदैवं तृणवन्मनसि प्रचुरं दैवम् ॥ ९ ॥
लज्जाभावो ललितं दैवं रसनाभावो भीमं दैवम् ।
दृष्टौ दृष्टौ सूक्ष्मं दैवं विषये विषये स्थूलं दैवम् ॥ १० ॥
स्तोत्रे स्तोत्रे मधुरं दैवं ध्याने ध्याने मददैवम् ।
नमने नमने वरदं दैवं चरिते चरिते पूतं दैवम् ॥ ११ ॥
आकाशामलगात्रं दैवं तारारविशशिनेत्रं दैवम् ।
व्यापकपवनश्वसितं दैवं पारावारस्वेदं दैवम् ॥ १२ ॥
लीलानारीवेषं दैवं दिव्यहिरण्मयभूषं दैवम् ।
केषाञ्चित्कृतपोषं दैवं केषाञ्चित्कृतशोषं दैवम् ॥ १३ ॥
पोषविधाने शीतं दैवं शोषविधाने तपनं दैवम् ।
सर्गविधाने विकसदैवं प्रलयविधाने मीलदैवम् ॥१४॥