This page has not been fully proofread.

गीतमाला
 
भारतं न केवलं चतुःसमुद्रमुद्रितं
भूमिखण्डमेव यो व्यभूषयन्निजैर्गुणैः ।
तस्य पूरुषोत्तमस्य बुद्धनामधारिणः
पावनी कथा मुदे विदां नदीव नाभसी ॥९॥
 
गायत स्तुताद्रियध्वमाश्रयध्वमुत्तमं
पूरुषं पुराणमर्कमण्डलान्तरालयम् ।
कल्कभारवारणाय कल्किभूमिकाधरो
योऽयमस्य भूतलस्य रक्षणाय चेष्टते ॥१०॥
 
सप्तमम् अम्बिकागीतम्
 
सेवकपातकशमनं दैवं मानसवाञ्छितफलदं दैवम् ।
सज्जनरक्षणचतुरं दैवं दुर्जनमर्दनपरुषं दैवम् ॥१॥
 
भास्करविम्बे दीप्तं दैवं लोचनमध्ये सुप्तं दैवम् ।
सितकरमण्डलगुप्तं दैवं त्रिगुणितभुवनव्याप्तं दैवम् ॥ २॥
 
बहुशतचेटीसहितं दैवं रेणुसमष्ट्या विहितं दैवम् ।
अम्बरसौधे निहितं दैवं भैरववदनाऽभिहितं दैवम् ॥ ३ ॥
 
असुरुचिपद्याभूतं दैवं वसुरुद्रार्केर्गीतं दैवम् ।
क्षितिजलशुचिषु प्रोतं दैवं शितमतिभिः समधीतं दैवम् ॥ ४ ॥
 
मृदुहृदयानां सौम्यं दैवं प्रियरूपाणां रम्यं दैवम् ।
तत्त्वज्ञानां विश्वं दैवं गुणविरुचीनां शून्यं दैवम् ॥ ५॥
 
११५