2023-11-19 19:22:28 by ambuda-bot
This page has not been fully proofread.
११४
स्तोत्रग्रन्थमाला - तृतीयो भागः
सान्त्वयन्तमन्यया दयार्द्रया वसुन्धरां
शीतलत्विषा हरिं किरिच्छलं स्मरान्तरे ॥ ३ ॥
प्राणमुज्जहार दैत्यवक्षसो विदारिता-
द्योनखैरखर्वशक्तिपौरुषोज्वलन् रुषा ।
आसुरात्कुलाच्छ्रियं सुपर्वचेतसो भियं
नारसिंहमूर्तिरार्तिमच्युतः स हन्तु ते ॥ ४ ॥
त्रीणि यः पदान्यजः समन्ततो विचक्रमे
नाङ्गुलं यथात्यरिच्यतात्र दिव्यमुत्र वा ।
नाकचारिणोऽधिकर्तुमाशु हर्तुमासुरीं
सम्पदं च तं परं पुमांसमाश्रयस्व रे ॥५॥
योऽर्जुनं भुजाबलेन निर्जिगाय दुर्जयं
चेतसा वशंवदेन पर्यभूदनन्यजम् ।
लोभमासमुद्रभूमिदानकर्मणाजय-
द्रैणुकेयभूमिकः स ते स्यताद्भियं हरिः ॥६॥
वाक्यकृत्सुतः पितुः प्रभुश्च रक्षिता विशा-
मग्रजोऽतिवत्सलो नियामकोऽनुजन्मनाम् ।
श्रीकरः सतां सखा द्विषां च भीकरो रिपुः
सीतया कलत्रवान्नरो हरिर्धिनोतु वः ॥ ७ ॥
भूमिभारवारणाय यो यदुष्वभूद्विभु-
र्विस्मयं शिशोश्च यस्य चेष्टितानि तेनिरे ।
शर्म वः स पूरुषो रथाङ्गमायुधं दधत्
कर्मयोगदेशिकः करोतु पार्थसारथिः ॥ ८ ॥
स्तोत्रग्रन्थमाला - तृतीयो भागः
सान्त्वयन्तमन्यया दयार्द्रया वसुन्धरां
शीतलत्विषा हरिं किरिच्छलं स्मरान्तरे ॥ ३ ॥
प्राणमुज्जहार दैत्यवक्षसो विदारिता-
द्योनखैरखर्वशक्तिपौरुषोज्वलन् रुषा ।
आसुरात्कुलाच्छ्रियं सुपर्वचेतसो भियं
नारसिंहमूर्तिरार्तिमच्युतः स हन्तु ते ॥ ४ ॥
त्रीणि यः पदान्यजः समन्ततो विचक्रमे
नाङ्गुलं यथात्यरिच्यतात्र दिव्यमुत्र वा ।
नाकचारिणोऽधिकर्तुमाशु हर्तुमासुरीं
सम्पदं च तं परं पुमांसमाश्रयस्व रे ॥५॥
योऽर्जुनं भुजाबलेन निर्जिगाय दुर्जयं
चेतसा वशंवदेन पर्यभूदनन्यजम् ।
लोभमासमुद्रभूमिदानकर्मणाजय-
द्रैणुकेयभूमिकः स ते स्यताद्भियं हरिः ॥६॥
वाक्यकृत्सुतः पितुः प्रभुश्च रक्षिता विशा-
मग्रजोऽतिवत्सलो नियामकोऽनुजन्मनाम् ।
श्रीकरः सतां सखा द्विषां च भीकरो रिपुः
सीतया कलत्रवान्नरो हरिर्धिनोतु वः ॥ ७ ॥
भूमिभारवारणाय यो यदुष्वभूद्विभु-
र्विस्मयं शिशोश्च यस्य चेष्टितानि तेनिरे ।
शर्म वः स पूरुषो रथाङ्गमायुधं दधत्
कर्मयोगदेशिकः करोतु पार्थसारथिः ॥ ८ ॥