2023-11-19 19:22:27 by ambuda-bot
This page has not been fully proofread.
गीतमाला
निःशेषाभिः सहितं श्रीभिर्निर्हतपापे दहरसरोजे ।
कृतिनः किरणैरङ्गुष्ठाभं तं लोकेरन्पुरुषमणिष्ठम् ॥१२॥
परमविदुस्त्वां पावकमवनौ दिवि रविमम्बरभुवने शक्रम् ।
आत्मानं वा ज्योतिर्वैकं जगतां भेदात् कवयस्त्रेधा ॥ १३ ॥
वैभवशाली दीधितिमाली प्रशमितपापस्त्रिभुवनदीपः ।
दिवि भाति रविर्यत्राचरतश्चरतश्चेशितृपरमं ज्योतिः ॥ १४ ॥
जयति विवस्वान् दशशतधामा जयति च तस्मिन् परमं धाम ।
पादाकुलकैर्नुतिरदसीया गणपतिमुनिना रचिता जयति ॥ १५॥
षञष्ठं दशावतारगीतम्
वेदचोरमाशरं विमथ्य सोमकं पुरा
यः स्मृतिं ध्रुवां पुनः सुताय भास्वतो ददौ ।
सिन्धुवारि बन्धुरास नौधरस्तपस्विनां
यश्च तं सखे भजस्व झाषवेषमच्युतम् ॥१॥
मन्दराद्रिधारिणे महेन्द्रकार्यकारिणे
मौनिचित्तचारिणे महोग्रपापहारिणे ।
अञ्जलिं कुरुष्व भोर्हरिल्लतान्तमञ्जुल-
स्वच्छकीर्तये विलासकच्छपाय विष्णवे ॥ २ ॥
काञ्चनाक्षमुष्णरश्मिजालया दृशैकया
च्यावयन्तमोजसः प्रदीप्तघोरतारया ।
११३