This page has not been fully proofread.

स्तोत्रग्रन्थमाला - तृतीयो भागः
 
शम्भोः केशे वपुषा केन श्रोत्रे मातुर्वपुषा केन ।
राजसि नलिनीप्रिय दम्पत्योर्भूषणमसि वा पर्यायेण ॥ ३ ॥
 
११२
 
कश्चन दक्षिणनयनं भर्तुर्मूर्ति कामपि भणति विदन्यः ।
अपरो भवनं भुवनं त्वितरः प्राणं दशशतकिरण परस्त्वाम् ॥ ४ ॥
 
प्राणिति भवता पश्यति भवता खादति पाति च भुवनं भवता ।
भाति च भवता भास्कर भवतो माहाभाग्यं न भणिति मार्गे ॥५॥
 
हृदयं यद्वज्जीवानां नो मण्डलमेतन्नाथस्यैवम् ।
तस्मादेतत्परिदृञष्टान्तैर्हृदयसमष्टिः कथिता शिष्टैः ॥६॥
 
मण्डलमध्ये यत्त्ताज्ज्योतिर्हृदयस्यान्तर्यत्तज्ज्योतिः ।
भवति तदस्मिन्नक्षिणि गम्यं रम्यं पूर्णं मम खलु काम्यम् ॥७॥
 
क्षेत्रे क्षेत्रे बहुशोऽन्विष्टं लोचनमण्डलमध्ये ञदृष्टम् ।
कष्टं गलितं फलितं चेष्टं पुनरस्माकं किं परिशिष्टम् ॥८॥
 
साक्षिणमक्षिणि निश्चलदृष्ट्या निर्मलनभसि स्थितया द्वारा ।
लक्ष्यं रात्रावपि दिननाथं पश्यत नश्यं मुञ्चत निखिलम् ॥९॥
 
नरकामानामयमिह राजा जागर्त्यक्षिणि सायं पाता ।
सुरकामानामीशानोऽसौ सूर्ये भाति प्रातः पाता ॥१०॥
 
ज्ञानाकारं तेजः पश्यत्प्रतिबिम्बं वा पुंसो हैमम् ।
धीरो ध्यायन्नयनस्थाने पाशैर्मुक्तः कृतकृत्यः स्यात् ॥११॥