2023-11-19 19:22:27 by ambuda-bot
This page has not been fully proofread.
गीतमाला
आत्मा मरुतां त्वं कैरप्यसि गीतः ।
कैरप्यधिराजः कैरप्ययि तातः ॥ १५ ॥
आत्मा मरुतां त्वं गीतः पृषदश्वः ।
राजा पुरुहूतस्तातो निगमाश्वः ॥१६॥
वातस्तव वीचिर्विद्युत्तव कायम् ।
तारस्तव शब्दो देवाधिप सोऽयम् ॥१७॥
वेदादिमनादिं तारं प्रणवाख्यम् ।
ध्यायन्ति विदो ये तैः स्यात्तव सख्यम् ॥१८॥
वातोऽस्यधिभूतं शक्रोऽस्यधिदैवम् ।
रुद्रोऽस्यधिपिण्डं पक्षान्तरमेवम् ॥ १९ ॥
गीताः कविराजा सर्वस्तव भाजे ।
एतास्तनुमध्यास्ताताय खराजे ॥ २० ॥
पञ्चमं सूर्यगीतम्
भुवनत्रयपतिमूर्धजमध्ये दीप्यन्मणिरयमहिममयूखः ।
भुवनत्रयतोऽप्यधिको मूल्ये भवतां सम्पदमतुलां भातु ॥ १॥
एतन्मण्डलमतुहिनभानोर्भासां स्थानं निगमनिधानम् ।
विप्रैर्वन्द्यं काले काले विश्वप्राणायतनं जयति ॥ २॥
१११