This page has not been fully proofread.

११०
 
स्तोत्रग्रन्थमाला - तृतीयो भागः
 
घुष्यन्नसि रुद्रो दीप्यन्नसि शक्रः ।
प्राणन्नसि वातस्त्रेधासि नुतोऽतः ॥ ६ ॥
 
सर्वाश्च दिशस्ते व्योमेश्वर हस्ते ।
भाक्ता पुनरेषा कोणेडिति भाषा ॥७॥
 
नित्याध्वग कर्तुं श्रान्ते परिहारम् ।
वासिष्ठवचोऽम्भो हृद्यं पिब धीरम् ॥ ८ ॥
 
अन्नानि कृशानौ जुह्वत्वदरिद्राः ।
वायो जुहुमोऽमी वाचस्त्वयि भद्राः ॥९॥
 
यद्यप्याय दिव्यो गुप्तस्तव वेषः ।
व्योमेश तथाऽपि व्यक्तस्तव घोषः ॥ १० ॥
 
आकाशगृहाणामात्मासि सुराणाम् ।
वीर्यद्रविणानां कोशोऽसि नराणाम् ॥ ११ ॥
 
त्वामाह स रैक्वः संवर्गमनन्तम् ।
स्वस्मित्सुदृढानां दुःखानि हरन्तम् ॥ १२ ॥
 
मूलं तपसां त्वं देवासि ऋषीणाम् ।
लोके सकलानां हेतुश्च कृषीणाम् ॥१३॥
 
दानार्थमसूनां प्राप्तक्षितिरङ्गाः ।
एते तव वाताः खेशान तरङ्गाः ॥१४॥