2023-11-19 19:22:27 by ambuda-bot
This page has not been fully proofread.
गीतमाला
आविश्य विभो मां कर्तुं भुवि कार्यम् ।
सम्प्रेषय किञ्चिद्दिव्यं तव वीर्यम् ॥ ४० ॥
धाता भुवनानां नेता त्रिदशानाम् ।
आविश्य विभुर्मामाभातु सुकर्मा ॥ ४१॥
इन्द्रं प्रभजन्तामेतास्तनुमध्याः ।
नाथं गुणवत्यो यद्वत्तनुमध्याः ॥ ४२ ॥
चतुर्थं वायुगीतम्
दिष्टात्पतितोऽहं मन्दे नरवृन्दे ।
त्राणाय समीरं तं सम्प्रति वन्दे ॥ १॥
तारासुमचित्रं खेलत्खगजालम् ।
उद्यानमिदं ते खं वात विशालम् ॥ २ ॥
देवोऽसि बलस्य प्राणोऽस्यखिलस्य ।
ब्रूयादतिमानं कस्ते महिमानम् ॥ ३ ॥
भक्त्या तव पुण्यं तुल्यं क्व नु गण्यम् ।
तद्वक्ति चरित्रं रैक्वस्य पवित्रम् ॥ ४ ॥
मेयः स च नाकः स्वल्पो नरलोकः ।
नित्यानिल शुभ्रं निःसीम तवाभ्रम् ॥५॥
१०९
आविश्य विभो मां कर्तुं भुवि कार्यम् ।
सम्प्रेषय किञ्चिद्दिव्यं तव वीर्यम् ॥ ४० ॥
धाता भुवनानां नेता त्रिदशानाम् ।
आविश्य विभुर्मामाभातु सुकर्मा ॥ ४१॥
इन्द्रं प्रभजन्तामेतास्तनुमध्याः ।
नाथं गुणवत्यो यद्वत्तनुमध्याः ॥ ४२ ॥
चतुर्थं वायुगीतम्
दिष्टात्पतितोऽहं मन्दे नरवृन्दे ।
त्राणाय समीरं तं सम्प्रति वन्दे ॥ १॥
तारासुमचित्रं खेलत्खगजालम् ।
उद्यानमिदं ते खं वात विशालम् ॥ २ ॥
देवोऽसि बलस्य प्राणोऽस्यखिलस्य ।
ब्रूयादतिमानं कस्ते महिमानम् ॥ ३ ॥
भक्त्या तव पुण्यं तुल्यं क्व नु गण्यम् ।
तद्वक्ति चरित्रं रैक्वस्य पवित्रम् ॥ ४ ॥
मेयः स च नाकः स्वल्पो नरलोकः ।
नित्यानिल शुभ्रं निःसीम तवाभ्रम् ॥५॥
१०९