This page has not been fully proofread.

१०८
 
स्तोत्रग्रन्थमाला - तृतीयो भागः
 
एकः स तिसृणामस्थूलतनूनाम् ।
राजत्यभिमानी राजा भुवनानाम् ॥ ३१ ॥
 
दृश्यस्य परस्ताद्ब्रह्मागुणमस्ति ।
इन्द्राभिधया तत् दृश्येऽत्र चास्ति ॥३२॥
 
बन्धुर्भुवनानां सूर्यस्ततकीर्तिः ।
राजन्नमराणां तुर्या तव मूर्तिः ॥ ३३ ॥
 
देव प्रतिबिम्बीभूय प्रतिसूर्यम् ।
विश्वस्य महेन्द्र त्वं पश्यसि कार्यम् ॥ ३४ ॥
 
नो केवलमर्के पिण्डेषु च तातः ।
अन्तः प्रतिबिम्बीभूतः पुरुहूतः ॥ ३५॥
 
पिण्डे प्रतिबिम्बीभूतं पुरुहूतम ।
वैश्वानरमाहुर्लोकत्रयतातम् ॥ ३६ ॥
 
नान्यानि किल त्वद्रूपाण्यखिलानि ।
मायिन् विभवं ते किं वा कथयामि ॥ ३७॥
 
पाहि त्रिदशानामीशान कृशान्नः ।
भूयात्तव देव स्तोता बहुलान्नः ॥ ३८ ॥
 
सर्वं भवताऽहं पक्षेण जयानि ।
ईशो भुवि लोके नाकेश भवानि ॥ ३९ ॥