This page has not been fully proofread.

गीतमाला
 
विश्वस्य निदानं विश्वातिगमानम् ।
एतं विदुरन्ये वायुं पवमानम् ॥ २२ ॥
 
सर्वस्य च नेत्री सर्वैरपि मान्या ।
गीर्वाणपते ते कालस्तनुरन्या ॥ २३ ॥
 
रुद्रं विदुरेके नेतर्बहुलीलम् ।
प्राहुर्यममन्ये कायं तव कालम् ॥ २४॥
 
कालोऽयमनादिः सूर्यादपि पूर्वः ।
भाक्तो जनिवादस्तस्याजर सर्वः ॥ २५ ॥
 
सद्व्यापकशक्तिं प्राणं कथयन्ति ।
व्यक्तेतरशब्दं कालं गणयन्ति ॥ २६ ॥
 
व्यक्तेतरशब्दान्नैव प्रणवोऽन्यः ।
 
तस्येन्द्र तवाङ्के विश्राम्यति धन्यः ॥ २७ ॥
 
सच्छक्तिरभाणि प्राणः परमस्य ।
चिच्छक्तिरगादि प्राज्ञैः प्रणवोऽस्य ॥ २८ ॥
 
सर्वत्र विसारि ज्योतिस्तटिदाख्यम् ।
देवेन्द्र शरीरं गीतं तव मुख्यम् ॥२९॥
 
प्राणं प्रणवं च ज्योतिश्च विसारि ।
देवं नयदेकं वन्दे भवारि ॥ ३० ॥
 
१०७