This page has not been fully proofread.

१०६
 
स्तोत्रग्रन्थमाला - तृतीयो भागः
 
तारं मदनारिं प्राणं पवमानम् ।
देवं मघवानं ध्यायाम्यतिमानम् ॥ १३ ॥
 
वीर्ये सकलं त्वद्देवेश्वर नूनम् ।
देवासुरमर्त्यैर्युक्तं जगदूनम् ॥१४॥
 
निर्जित्य समस्तान् भावानपि जिष्णो ।
सम्राड् भुवनानामासीः प्रभविष्णो ॥ १५ ॥
 
नाभेत्स्य इमं चेद् वृत्रं दिवि वीरम् ।
नामोक्ष्यदघारे मेघो भुवि नीरम् ॥ १६ ॥
 
गोपायसि विश्वं शश्वद्बहुरीतीः ।
स्वर्नाथ विधुन्वन् वृत्रस्य विभूतीः ॥१७॥
 
चत्वारि वपूंषि प्राहूर्मुनयस्ते ।
येषां जगदेतद्देवाधिप हस्ते ॥ १८ ॥
 
रूपाणि विभो ते भूयांसि ततानि ।
दिङमात्रतयाद्यैश्चत्वार्युदितानि ॥ १९ ॥
 
सर्वस्य च कर्ता सर्वस्य च धर्ता ।
प्राणः पुरुहूतः को नाम स गीतः ॥ २० ॥
 
सूत्रं विदुरेके सुश्लोकमनन्तम् ।
केचिद्विधिमाहुः कं तं भगवन्तम् ॥ २१॥