This page has not been fully proofread.

गीतमाला
 
शक्रः शुभवित्तां लक्ष्मीमनियत्ताम् ।
आनन्दितचित्तां मह्यं भुवि धत्ताम् ॥ ४ ॥
 
नाकं त्वमरक्षः पाकं युधि जित्वा ।
वृत्रं च विधूयामित्रं पविपाणे ॥५॥
 
एतानि विकुर्वन् भूतानि स पाकः ।
शुभ्रे विफलोऽभूदभ्रे तव जिष्णो ॥ ६ ॥
 
पाकः प्रभुरेव प्राणांश्च विकर्तुम् ।
यद्यम्बरनाथ त्वं न प्रतिकर्तुम् ॥ ७॥
 
न त्वं यदि रोद्धा वृत्रः परिभूय ।
प्रज्ञामयि विश्वं दद्यात्तिमिराय ॥८॥
 
प्रज्ञामुषसं तां ज्ञं चाजितसूर्यम् ।
यद्रक्षसि वृत्रात्तत्ते सुरकार्यम् ॥९॥
 
सम्मोहनशक्तिर्वृत्रस्य तु निद्रा ।
सम्बोधनशक्तिर्विद्युत्तव भद्रा ॥ १० ॥
 
नादान्तविभास्यं वेदान्तरहस्यम् ।
मोदान्तरयोधं भेदान्तकमीडे ॥ ११ ॥
 
खे वायुमनन्तं रुद्रं निनदन्तम् ।
भान्तं मघवन्तं वन्दे भगवन्तम् ॥१२॥
 
१०५