This page has not been fully proofread.

१०४
 
स्तोत्रग्रन्थमाला - तृतीयो भागः
 
वाचि मम दिव्यां धेहि निजधाटीम् ।
सिद्धिमजितास्यै देहि वरचेटीम् ॥ २४ ॥
 
हस्तिमुख याचे गाढरसभक्त्या ।
आविश विभो मां दिव्यनिजशक्त्या ॥ २५ ॥
 
देहि निजतेजः किङ्करजनाय ।
ईश्वर गणानां भारतहिताय ॥ २६ ॥
 
सर्वद जनोऽयं वाञ्छति न मुक्तिम् ।
देशकुशलाय प्रार्थयति शक्तिम् ॥ २७ ॥
 
गाणपतमेतद्गीतमतिशुद्धम् ।
भातु भयहारि च्छन्दसि निबद्धम् ॥ २८ ॥
 
तृतीयम् इन्द्रगीतम्
 
धर्ता सुकृतानां हर्ता दुरितानाम् ।
भर्ता नभसो मे कर्तास्तु शुभानाम् ॥ १॥
 
ख्याताऽमितवीर्यो धूताखिलवैरी ।
नेता विबुधानां त्राता भवतान्मे ॥ २ ॥
 
विक्रम्य विधुन्वन्वक्रांत्समरेषु ।
चक्रायुधमित्रः शक्रः शरणं नः ॥ ३ ॥