2023-11-19 19:22:25 by ambuda-bot
This page has not been fully proofread.
गीतमाला
त्वत्पदसरोजे यस्य हृदि भक्तिः ।
काऽपि शिवसूनो तद्वचसि शक्तिः ॥ १५ ॥
त्वं खलु मघोनो धूतसुजनार्तिः ।
अत्र भुवि काचित्कार्यकरमूर्तिः ॥१६॥
त्वां भजति गाढप्रीतिरतिशस्ता ।
सिद्धिरिति लक्ष्मीस्तामरसहस्ता ॥१७॥
सश्रियमुदारां श्रीहृदयहारी ।
संवितरतान्मे सर्वबलधारी ॥ १८ ॥
शीतनगजायाः सूनुरतिहृद्याम् ।
भूरिकरुणो मे पूरयतु विद्याम् ॥१९॥
वारणमुखो मे वारयतु कष्टम् ।
सर्वमपि देयाच्छर्वसुत इष्टम् ॥ २० ॥
मां चरणभाजं पापहरनामा ।
पालयतु शम्भोः सूनुरतिधामा ॥ २१ ॥
निर्जितजराधिं निर्दलितरोगम् ।
दन्तिवदनो मे वर्धयतु योगम् ॥ २२ ॥
सुक्षमतमं मे कञष्टहिमभानो ।
प्राणबलमग्रयं देहि हरसूनो ॥ २३ ॥
१०३
त्वत्पदसरोजे यस्य हृदि भक्तिः ।
काऽपि शिवसूनो तद्वचसि शक्तिः ॥ १५ ॥
त्वं खलु मघोनो धूतसुजनार्तिः ।
अत्र भुवि काचित्कार्यकरमूर्तिः ॥१६॥
त्वां भजति गाढप्रीतिरतिशस्ता ।
सिद्धिरिति लक्ष्मीस्तामरसहस्ता ॥१७॥
सश्रियमुदारां श्रीहृदयहारी ।
संवितरतान्मे सर्वबलधारी ॥ १८ ॥
शीतनगजायाः सूनुरतिहृद्याम् ।
भूरिकरुणो मे पूरयतु विद्याम् ॥१९॥
वारणमुखो मे वारयतु कष्टम् ।
सर्वमपि देयाच्छर्वसुत इष्टम् ॥ २० ॥
मां चरणभाजं पापहरनामा ।
पालयतु शम्भोः सूनुरतिधामा ॥ २१ ॥
निर्जितजराधिं निर्दलितरोगम् ।
दन्तिवदनो मे वर्धयतु योगम् ॥ २२ ॥
सुक्षमतमं मे कञष्टहिमभानो ।
प्राणबलमग्रयं देहि हरसूनो ॥ २३ ॥
१०३