2023-11-19 19:22:25 by ambuda-bot
This page has not been fully proofread.
१०२
स्तोत्रग्रन्थमाला - तृतीयो भागः
मित्र कुरु भक्तिं विश्वयुवराजे ।
देहि हृदमुष्मै योगिनुतिभाजे ॥ ६ ॥
अत्र सशरीरे मूलशिखिरूपी ।
योगविमुखो ना विन्दति न पापी ॥७॥
ध्यायति सदान्तर्योऽग्रभुजमेतम् ।
तं भजति देवी सिद्धिरतिपूतम् ॥ ८ ॥
तस्य वरभासा सन्द्रवति शीर्षम् ।
यस्य परितप्तं विन्दति सहर्षम् ॥ ९ ॥
योगविद आहुः शीर्षरसधाराम् ।
सिद्धिशतहेतुं ताममृतसाराम् ॥ १० ॥
पीठमधिरूढं मूलसरसीजम् ।
सर्वभुवनानां नौमि युवराजम् ॥११॥
काचन रुचिस्ते भर्गसुत पूता ।
मङ्गलसुषुम्नामार्गचरमाता ॥ १२ ॥
भाग्यमखिलानां देव तव हस्ते ।
भूरि महिमानं वर्णयतु कस्ते ॥ १३ ॥
हस्तिवदनो ना स त्वमधिदैवम् ।
सङ्कटहरार्यैः सङ्गदितमेवम् ॥ १४ ॥
स्तोत्रग्रन्थमाला - तृतीयो भागः
मित्र कुरु भक्तिं विश्वयुवराजे ।
देहि हृदमुष्मै योगिनुतिभाजे ॥ ६ ॥
अत्र सशरीरे मूलशिखिरूपी ।
योगविमुखो ना विन्दति न पापी ॥७॥
ध्यायति सदान्तर्योऽग्रभुजमेतम् ।
तं भजति देवी सिद्धिरतिपूतम् ॥ ८ ॥
तस्य वरभासा सन्द्रवति शीर्षम् ।
यस्य परितप्तं विन्दति सहर्षम् ॥ ९ ॥
योगविद आहुः शीर्षरसधाराम् ।
सिद्धिशतहेतुं ताममृतसाराम् ॥ १० ॥
पीठमधिरूढं मूलसरसीजम् ।
सर्वभुवनानां नौमि युवराजम् ॥११॥
काचन रुचिस्ते भर्गसुत पूता ।
मङ्गलसुषुम्नामार्गचरमाता ॥ १२ ॥
भाग्यमखिलानां देव तव हस्ते ।
भूरि महिमानं वर्णयतु कस्ते ॥ १३ ॥
हस्तिवदनो ना स त्वमधिदैवम् ।
सङ्कटहरार्यैः सङ्गदितमेवम् ॥ १४ ॥