2023-11-19 19:22:25 by ambuda-bot
This page has not been fully proofread.
गीतमाला
देव वरदा त्वं भव ममास्त्रम् ।
बोधय च मह्यं सर्वमपि शास्त्रम् ॥२६॥
सुप्रभ धिया त्वां व्याप्तमखिलानि ।
नौमि सकलानि क्षेमद जयानि ॥ २७ ॥
गाणपतमग्नेः सर्वजनहृद्यम् ।
भातु भयहारि च्छन्द इदमाद्यम् ॥ २८ ॥
द्वितीयं गणपतिगीतम्
भद्रतरमूर्तिं भद्रतमकीर्तिम् ।
रुद्रतनयं तं गायत महान्तम् ॥१॥
ज्योतिरिह सूक्ष्मज्वालमतिदीप्तम् ।
भाति कुलकुण्डे योगिमनुजाप्तम् ॥ २ ॥
तन्नमत वाचो दैवतमुदारम् ।
सङ्कटशतानां यातुमिह पारम् ॥ ३ ॥
तं गणपतिं यो विस्मरति लोके ।
सन्ततमभाग्यो मज्जति स शोके ॥ ४ ॥
दम्पतिविहारः शीतशशिखण्डे ।
नन्दननिवासो दीप्तकुलकुण्डे ॥५॥
१०१
देव वरदा त्वं भव ममास्त्रम् ।
बोधय च मह्यं सर्वमपि शास्त्रम् ॥२६॥
सुप्रभ धिया त्वां व्याप्तमखिलानि ।
नौमि सकलानि क्षेमद जयानि ॥ २७ ॥
गाणपतमग्नेः सर्वजनहृद्यम् ।
भातु भयहारि च्छन्द इदमाद्यम् ॥ २८ ॥
द्वितीयं गणपतिगीतम्
भद्रतरमूर्तिं भद्रतमकीर्तिम् ।
रुद्रतनयं तं गायत महान्तम् ॥१॥
ज्योतिरिह सूक्ष्मज्वालमतिदीप्तम् ।
भाति कुलकुण्डे योगिमनुजाप्तम् ॥ २ ॥
तन्नमत वाचो दैवतमुदारम् ।
सङ्कटशतानां यातुमिह पारम् ॥ ३ ॥
तं गणपतिं यो विस्मरति लोके ।
सन्ततमभाग्यो मज्जति स शोके ॥ ४ ॥
दम्पतिविहारः शीतशशिखण्डे ।
नन्दननिवासो दीप्तकुलकुण्डे ॥५॥
१०१