2023-11-19 19:22:24 by ambuda-bot
This page has not been fully proofread.
१००
स्तोत्रग्रन्थमाला - तृतीयो भागः
यत् स्फुरणमन्तः स्वस्य धुतपापम् ।
ध्येयमिदम देव तव रूपम् ॥ १७ ॥
देव भवसि त्वं वह्निरिह लोके ।
सर्वद समन्ताद्विद्युदसि नाके ॥ १८ ॥
अत्र जननी ते भूमिरतिपूता ।
द्यौरनल देवी तत्र तव माता ॥१९॥
अत्र वसवस्ते वायुसख हस्ते ।
वाचमनुभद्रास्तत्र तव रुद्राः ॥ २० ॥
अत्र हृदि राजन् राजसि नराणाम् ।
तत्र वरदान्तः खेलसि सुराणाम् ॥ २१ ॥
अत्र जगदीश त्वं ज्वलननामा ।
तत्र मघवा त्वं निःशामा ॥२२॥
द्वावनलशक्रौ पामरजनानाम् ।
स द्वितनुरेकः पण्डितजनानाम् ॥ २३ ॥
भानुरपि देवो लोकसुहृदेषः ।
व्यापक कृशानो कोऽपि तव वेषः ॥ २४ ॥
देहि भगवन्मे सम्पदमुदाराम् ।
बुद्धिमपि वह्ने त्रातरतिधीराम् ॥ २५ ॥
स्तोत्रग्रन्थमाला - तृतीयो भागः
यत् स्फुरणमन्तः स्वस्य धुतपापम् ।
ध्येयमिदम देव तव रूपम् ॥ १७ ॥
देव भवसि त्वं वह्निरिह लोके ।
सर्वद समन्ताद्विद्युदसि नाके ॥ १८ ॥
अत्र जननी ते भूमिरतिपूता ।
द्यौरनल देवी तत्र तव माता ॥१९॥
अत्र वसवस्ते वायुसख हस्ते ।
वाचमनुभद्रास्तत्र तव रुद्राः ॥ २० ॥
अत्र हृदि राजन् राजसि नराणाम् ।
तत्र वरदान्तः खेलसि सुराणाम् ॥ २१ ॥
अत्र जगदीश त्वं ज्वलननामा ।
तत्र मघवा त्वं निःशामा ॥२२॥
द्वावनलशक्रौ पामरजनानाम् ।
स द्वितनुरेकः पण्डितजनानाम् ॥ २३ ॥
भानुरपि देवो लोकसुहृदेषः ।
व्यापक कृशानो कोऽपि तव वेषः ॥ २४ ॥
देहि भगवन्मे सम्पदमुदाराम् ।
बुद्धिमपि वह्ने त्रातरतिधीराम् ॥ २५ ॥