2023-11-19 19:22:24 by ambuda-bot
This page has not been fully proofread.
गीतमाला
आह्वयति भानुं प्रातरशनाय ।
त्वामनल यज्वा सायमशनाय ॥ ८ ॥
एकममृत त्वां प्रातरपि सायम् ।
श्रोतुमयि वाणीराह्वयति सोऽयम् ॥ ९॥
दीप्ततरकील त्वं भजसि हव्यम् ।
नेतरयि वाचां स्तोत्रमपि भव्यम् ॥ १० ॥
अस्मि न समर्थो यज्ञमयि कर्तुम् ।
स्तोत्रमवलम्बे शर्म तव भर्तुम् ॥ ११॥
पार्थिवविभूतिस्त्वं पचनकारी ।
वैद्युतविभूतिर्वाक्पटलधारी ॥ १२ ॥
त्वं पचनकारी भास्युदरभाण्डे ।
वाक्पटलधारी देव कुलकुण्डे ॥ १३ ॥
भास्युदरभाण्डे भासि कुलकुण्डे ।
किं च हृदि जीवो भास्यनल पिण्डे ॥१४॥
स्वस्य हृदि रूपं त्वामनल लोके ।
भामि विमलोऽयं धानि गती ॥१५॥
त्वां तमहमर्थं यः स्मरति नित्यम् ।
पावक विशोकः पश्यति स सत्यम् ॥१६॥
९९
आह्वयति भानुं प्रातरशनाय ।
त्वामनल यज्वा सायमशनाय ॥ ८ ॥
एकममृत त्वां प्रातरपि सायम् ।
श्रोतुमयि वाणीराह्वयति सोऽयम् ॥ ९॥
दीप्ततरकील त्वं भजसि हव्यम् ।
नेतरयि वाचां स्तोत्रमपि भव्यम् ॥ १० ॥
अस्मि न समर्थो यज्ञमयि कर्तुम् ।
स्तोत्रमवलम्बे शर्म तव भर्तुम् ॥ ११॥
पार्थिवविभूतिस्त्वं पचनकारी ।
वैद्युतविभूतिर्वाक्पटलधारी ॥ १२ ॥
त्वं पचनकारी भास्युदरभाण्डे ।
वाक्पटलधारी देव कुलकुण्डे ॥ १३ ॥
भास्युदरभाण्डे भासि कुलकुण्डे ।
किं च हृदि जीवो भास्यनल पिण्डे ॥१४॥
स्वस्य हृदि रूपं त्वामनल लोके ।
भामि विमलोऽयं धानि गती ॥१५॥
त्वां तमहमर्थं यः स्मरति नित्यम् ।
पावक विशोकः पश्यति स सत्यम् ॥१६॥
९९