This page has not been fully proofread.

गीतमाला
 
प्रथमम् अग्निगीतम्
 
वाचमधितिष्ठज्ज्योतिरपि भौमम् ।
किञ्चिदपि दैवं गेयमविरामम् ॥ १॥
 
स क्रतुषु होता विप्रमुखवासी ।
अत्ति च स हव्यं वेदितलासी ॥२॥
 
पावक वसुस्त्वं ज्वालशतमाली ।
कश्चिदसि रुद्रः शास्त्रशतशाली ॥ ३ ॥
 
पावक यदास्ये भासि मनुजानाम् ।
ते तदिह राज्यं बिभ्रति पशूनाम् ॥ ४॥
 
अस्मि तव दास्ये सञ्चर मदास्ये ।
सत्सदसि मोहं यामि न यथाऽहम् ॥ ५॥
 
नास्ति शरणं मे कोऽप्यवनिपृष्ठे ।
अग्निमवनार्थी देवमुपतिष्ठे ॥ ६ ॥
 
अस्ति करमाली कोऽपि दिवि राजा ।
एष ननु कीली भाति भुवि राजा ॥७॥