2023-11-19 19:22:21 by ambuda-bot
This page has not been fully proofread.
श्रीयोगाञ्जनेयपञ्चरत्नम्
नरसिंहपदाम्भोजभ्रमरायितमानसम् ।
योगयुक्तं हनूमन्तं घटिकाद्रिगतं भजे ॥१॥
एष हत्वा निशाटानां कोटीर्वीरवरः पुरा ।
अधुना दृश्यते योगी नरसिंहपदान्तिके ॥ २ ॥
सत्यं वद महावीर कुत्र ते रमते मनः ।
नृवेषे वा हरौ किंस्विन्नृसिंहतनुधारिणि ॥ ३ ॥
विचिन्तयन्निवाभेदं श्रीरामनरसिंहयोः ।
योगयुक्तो मरुत्सूनुः घटिकाद्रौ प्रदृश्यते ॥४॥
यस्मिन्मनः पथं याते न जनस्य विपत्पुनः ।
तं भजे मरुतः पुत्रं योगिनं वीरकुञ्जरम् ॥ ५॥
॥ श्रीयोगाञ्जनेयपञ्चरत्नं समाप्तम् ॥