This page has not been fully proofread.

श्रीनृसिंहपञ्चरत्नम्
 
घटिकाचलमालयमादधता
 
शरणागतरक्षणमाचरता ।
 
करुणाकलितेन जगत्पतिना
न विना मम याति मुदं हृदयम् ॥ १॥
 
वसतिं कुरुषे घटिकाद्रिवरं
हृदयं च मदीयमदस्सदय ।
नरसिंह विहाय विभो कपटं
वद कुत्र मनो भवतो रमते ॥ २ ॥
 
घटिकाचलवासिनमीशमजं
सततं स्मरतां क्व सतामशुभम् ।
यदि कोऽपि भवेदशुभस्य लवो
रुचिराशिरुदेष्यति पाशि दिशि ॥ ३ ॥
 
बहवोऽवतरा विलसन्तु मधुं
द्विषतो निजविग्रहतोऽप्यधिकम् ।
घटिकागिरिराड्वसतौ नृहरौ
करुणावति मे रमते हृदयम् ॥४॥
 
चरणागतान्परमसात्त्विकानृषीन्
करुणावलोकनिकरेण लालयन् ।