This page has not been fully proofread.

श्रीपवनाष्टकम्
 
उत्तरचतुष्कम्
 
विश्वप्रियमेकं प्राणं पवन त्वाम् ।
न स्तौति सचेताः को नाम शरीरी ॥ ५॥
 
खेलत्खगवर्गं तारासुमचित्रम् ।
उद्यानमिदं ते खं वात विशालम् ॥६॥
 
ब्रह्माहुरयि त्वां मिथ्यात्वयि नेदम् ।
मुक्ता भवता चेत्सेयं गतिदीक्षा ॥ ७ ॥
 
वृत्तीः परिभूय श्वभ्रे विचरन्तम् ।
पश्यन्ननिल त्वां पश्येदमृतं ना ॥ ८ ॥
 
॥ पवनाष्टकं समाप्तम् ॥
 
८३