This page has not been fully proofread.

इन्द्रसप्तकम्
 
महिमानमिन्द्र तव भाषितुं वयं
प्रभवाम नैव वरदास्तु सा कथा ।
करुणा कयानुविधया तवार्थ्यताम्
इयमप्यरण्यपदवीव दुर्विदा ॥ ५ ॥
 
चरणानतानखिलदेवयूथपान्
करुणावलोकनिकरेण लालयन् ।
वरुणालयादपि गभीर एति मे
शरणार्थिनः स्मृतिपथं दिवस्पतिः ॥ ६ ॥
 
विदधातु भद्रमपवारयत्वघं
 
वितनोतु सम्पदपि श्रियां धियाम् ।
अखिलस्य भूसुरकुलो॒वस्य स
प्रभुरम्बरस्य मरुतां पतिर्वृषा ॥ ७॥
 
॥ इन्द्रसप्तकं समाप्तम् ॥
 
८१