2023-11-19 19:22:19 by ambuda-bot
This page has not been fully proofread.
इन्द्रसप्तकम्
यदि निर्विबन्धपदवी महागुहा
यदि तत्र मूलशुचिशक्तिनिर्झरी ।
यदि देवराजकरुणोन्मुखं मनो
न किमप्यसाध्यमिह देहधारिणाम् ॥ १॥
नरलोकदुर्विदबलस्थलाकृते-
र्मरुतां नृपस्य कथमुच्यतां कथा ।
बहुवारमार्यसमितिष्वितः
करुणैव केवलममुष्य याच्यते ॥ २ ॥
त्वयि हेलयेतरमतानुयायिभि
र्दुरितं यदिन्द्र मम पूर्वजैश्चितम् ।
पतयालु मे शिरसि पादसेविनो
विनिवारयस्व फलमस्य दारुणम् ॥३॥
कविता निरङकुशतया प्रवर्तते
मम लोकवृत्तपरिकीर्तनेषु या ।
गुणवर्णनाय तव सा समुद्यता
मघवन् प्रपश्यति दिशं न कामपि ॥ ४ ॥
यदि निर्विबन्धपदवी महागुहा
यदि तत्र मूलशुचिशक्तिनिर्झरी ।
यदि देवराजकरुणोन्मुखं मनो
न किमप्यसाध्यमिह देहधारिणाम् ॥ १॥
नरलोकदुर्विदबलस्थलाकृते-
र्मरुतां नृपस्य कथमुच्यतां कथा ।
बहुवारमार्यसमितिष्वितः
करुणैव केवलममुष्य याच्यते ॥ २ ॥
त्वयि हेलयेतरमतानुयायिभि
र्दुरितं यदिन्द्र मम पूर्वजैश्चितम् ।
पतयालु मे शिरसि पादसेविनो
विनिवारयस्व फलमस्य दारुणम् ॥३॥
कविता निरङकुशतया प्रवर्तते
मम लोकवृत्तपरिकीर्तनेषु या ।
गुणवर्णनाय तव सा समुद्यता
मघवन् प्रपश्यति दिशं न कामपि ॥ ४ ॥