2023-11-19 19:22:19 by ambuda-bot
This page has not been fully proofread.
इन्द्रविंशतिः
अयमतिमत्तैः करिभिरजय्यम् ।
घटयति सिंहं मृगशिशुजय्यम् ॥१५॥
चतुर्थो वर्गः
राकाशशिकीर्ति पाकासुरशत्रुम् ।
आकाशमहीशं शोकापहमीडे ॥ १६ ॥
निर्जित्य समस्तान् भावानपि जिष्णो ।
सम्राड् भुवनानां आसीः प्रभविष्णो ॥१७॥
जानामि मरुत्त्वन् गानाय यशस्ते ।
ध्यानाय न रूपं ज्ञानाय न तत्त्वम् ॥१८॥
लोके स्थितिभाजां यत्ते घनमूर्तिः ।
धात्री निखिलानां सेयं तव कीर्तिः ॥१९॥
तुष्टिं बहुवित्तां स्वाराडनियत्ताम् ।
आनन्दितचित्तां भक्तस्य विधत्ताम् ॥ २० ॥
॥ इन्द्रविंशतिः समाप्ता ॥
७९
अयमतिमत्तैः करिभिरजय्यम् ।
घटयति सिंहं मृगशिशुजय्यम् ॥१५॥
चतुर्थो वर्गः
राकाशशिकीर्ति पाकासुरशत्रुम् ।
आकाशमहीशं शोकापहमीडे ॥ १६ ॥
निर्जित्य समस्तान् भावानपि जिष्णो ।
सम्राड् भुवनानां आसीः प्रभविष्णो ॥१७॥
जानामि मरुत्त्वन् गानाय यशस्ते ।
ध्यानाय न रूपं ज्ञानाय न तत्त्वम् ॥१८॥
लोके स्थितिभाजां यत्ते घनमूर्तिः ।
धात्री निखिलानां सेयं तव कीर्तिः ॥१९॥
तुष्टिं बहुवित्तां स्वाराडनियत्ताम् ।
आनन्दितचित्तां भक्तस्य विधत्ताम् ॥ २० ॥
॥ इन्द्रविंशतिः समाप्ता ॥
७९