2023-11-19 19:22:19 by ambuda-bot
This page has not been fully proofread.
इन्द्रविंशतिः
प्रथमो वर्गः
अखिलनायकं मखभुजां वरम् ।
अरिविदारणं हरिहयं भजे ॥ १ ॥
मधुमुचामृचां परिचयी वृषा ।
रसकिरां गिरां भवतु लोकिता ॥२॥
अमरराज मे त्रिमलवारणे ।
भजनमेव ते भवतु भेषजम् ॥३॥
प्रतिभये गदे प्रतिभटे पटौ ।
वरद तारणं तव निषेवणम् ॥ ४ ॥
अयमिहाश्रितो भयहरेन्द्र ते ।
मधुरपद्यभृन्नधुरि खिद्यतु ॥ ५ ॥
द्वितीयो वर्गः
वृत्रमयि भृन्दन्नुत्सृजसि नीरम् ।
उत्सवसमेतो गर्जसि गभीरम् ॥६॥
प्रथमो वर्गः
अखिलनायकं मखभुजां वरम् ।
अरिविदारणं हरिहयं भजे ॥ १ ॥
मधुमुचामृचां परिचयी वृषा ।
रसकिरां गिरां भवतु लोकिता ॥२॥
अमरराज मे त्रिमलवारणे ।
भजनमेव ते भवतु भेषजम् ॥३॥
प्रतिभये गदे प्रतिभटे पटौ ।
वरद तारणं तव निषेवणम् ॥ ४ ॥
अयमिहाश्रितो भयहरेन्द्र ते ।
मधुरपद्यभृन्नधुरि खिद्यतु ॥ ५ ॥
द्वितीयो वर्गः
वृत्रमयि भृन्दन्नुत्सृजसि नीरम् ।
उत्सवसमेतो गर्जसि गभीरम् ॥६॥