2023-11-19 19:22:19 by ambuda-bot
This page has not been fully proofread.
इन्द्रसहस्रे कटाक्षस्तबकः
यं तव बलारे पावयति दृष्टिः ।
तत्र नरवर्ये सर्वशुभवृष्टिः ॥ ९ ॥
यत्र तव पूर्णा दृष्टिरतिभद्रा ।
भेदशतबुद्धिस्तस्य न दरिद्रा ॥ १० ॥
किं नु सुकृतादी किं दुरितखादी ।
शक्र तव रक्षःसूदनकटाक्षः ॥ ११ ॥
भक्तिरसिकानां पापततिखादी ।
सोऽयमितरेषां पक्वसुकृतादी ॥१२॥
पापततिखादी यत्र स कृपावान् ।
तस्य हृदि बोधः सर्वसमतावान् ॥१३॥
तस्य जगदर्थे सर्वमपि कार्यम् ।
अद्भुतमपारं दिव्यमपि वीर्यम् ॥ १४॥
पक्वसुकृतादी यत्र सविचित्रः ।
तस्य खलु भोगः काममतिमात्रः ॥१५॥
ये गिरिशनाम्रा ये च हरिनाम्ना ।
ये गणपनाम्ना ये च रविनाम्ना ॥ १६ ॥
शक्तिरिति नाम्ना ये बहुलधाम्ना ।
ये च मतिमन्तो यह्न इति नाम्ना ॥ १७ ॥
७५
यं तव बलारे पावयति दृष्टिः ।
तत्र नरवर्ये सर्वशुभवृष्टिः ॥ ९ ॥
यत्र तव पूर्णा दृष्टिरतिभद्रा ।
भेदशतबुद्धिस्तस्य न दरिद्रा ॥ १० ॥
किं नु सुकृतादी किं दुरितखादी ।
शक्र तव रक्षःसूदनकटाक्षः ॥ ११ ॥
भक्तिरसिकानां पापततिखादी ।
सोऽयमितरेषां पक्वसुकृतादी ॥१२॥
पापततिखादी यत्र स कृपावान् ।
तस्य हृदि बोधः सर्वसमतावान् ॥१३॥
तस्य जगदर्थे सर्वमपि कार्यम् ।
अद्भुतमपारं दिव्यमपि वीर्यम् ॥ १४॥
पक्वसुकृतादी यत्र सविचित्रः ।
तस्य खलु भोगः काममतिमात्रः ॥१५॥
ये गिरिशनाम्रा ये च हरिनाम्ना ।
ये गणपनाम्ना ये च रविनाम्ना ॥ १६ ॥
शक्तिरिति नाम्ना ये बहुलधाम्ना ।
ये च मतिमन्तो यह्न इति नाम्ना ॥ १७ ॥
७५