2023-11-19 19:22:19 by ambuda-bot
This page has not been fully proofread.
इन्द्रसहस्रे कटाक्षस्तबकः
तं दशशताक्षं शीतलकटाक्षम् ।
नौमि धुतपाशं वज्रधरमीशम् ॥१॥
उग्रमपि दक्षं भासुरकटाक्षम् ।
वीर्यधुतवृत्रं नौम्यदितिपुत्रम् ॥ २ ॥
आर्तजनपक्षं रक्षककटाक्षम् ।
प्राणिगणतातं नौमि पुरुहूतम् ॥ ३॥
देवमसदृक्षं पावनकटाक्षम् ।
नौमि बहुमायं वासवममेयम् ॥४॥
तं पुरुषमीडे स्तुत्यगणलक्षम् ।
स्वर्भुवनराज्ञी मोहनकटाक्षम् ॥५॥
यत्र तव दृष्टिर्वज्रधर हृद्या ।
नव्ययुगकर्त्री तत्र वरविद्या ॥ ६ ॥
तत्र वरलक्ष्मीः सन्ततमशून्या ।
तत्र सुगुणानां सम्पदपि मान्या ॥७॥
तत्र बलमुग्रं शत्रुमदहारि ।
तत्र नयवित्त्वं विश्वहितकारि ॥ ८ ॥
तं दशशताक्षं शीतलकटाक्षम् ।
नौमि धुतपाशं वज्रधरमीशम् ॥१॥
उग्रमपि दक्षं भासुरकटाक्षम् ।
वीर्यधुतवृत्रं नौम्यदितिपुत्रम् ॥ २ ॥
आर्तजनपक्षं रक्षककटाक्षम् ।
प्राणिगणतातं नौमि पुरुहूतम् ॥ ३॥
देवमसदृक्षं पावनकटाक्षम् ।
नौमि बहुमायं वासवममेयम् ॥४॥
तं पुरुषमीडे स्तुत्यगणलक्षम् ।
स्वर्भुवनराज्ञी मोहनकटाक्षम् ॥५॥
यत्र तव दृष्टिर्वज्रधर हृद्या ।
नव्ययुगकर्त्री तत्र वरविद्या ॥ ६ ॥
तत्र वरलक्ष्मीः सन्ततमशून्या ।
तत्र सुगुणानां सम्पदपि मान्या ॥७॥
तत्र बलमुग्रं शत्रुमदहारि ।
तत्र नयवित्त्वं विश्वहितकारि ॥ ८ ॥