2023-11-19 19:22:18 by ambuda-bot
This page has not been fully proofread.
७२
स्तोत्रग्रन्थमाला - तृतीयो भागः
ध्रुवस्मृतिमिमां विधाय च धियं
प्रभो दिशतु ते दया मम जयम् ॥ ९४ ॥
ध्रुवस्मृतिधरे मयि स्तुतिकरे
पदाब्जसुहृदि प्रकाशितहृदि ।
जगत्त्रयधरः शचीसहचरः
प्रपूर्णभरणां करोतु करुणाम् ॥९५॥
ममाभिलषितं प्रसिध्यतु न वा
मनः शममितं प्रतृप्यतु न वा ।
जहामि न बहु प्रकृष्टकरणं
दयाजलनिधेस्तवेन्द्र चरणम् ॥ ९६ ॥
प्रसिद्ध्यति न चेत्तदिन्द्र विगुणं
प्रतृप्यति न चेत्तदक्षमगुणम् ।
नमत्सु न दया नते धुतभया
क्रियेत हसनं कदापि न मया ॥ ९७॥
स्वकीयहृदयं समर्पयति ते
नतः कविरयं सुपर्वनृपते ।
महस्तव विशत्विदं च भवनं
चरत्यनुदिनं यदिन्द्र भुवनम् ॥ ९८ ॥
मनुं तव दिवो महीश जपतां
स्तवं तव सतां सहाय पठताम् ।
कृपेन्द्र तव नः प्रमादरहितां
स्वदेशमवितुं ददातु पटुताम् ॥ ९९ ॥
स्तोत्रग्रन्थमाला - तृतीयो भागः
ध्रुवस्मृतिमिमां विधाय च धियं
प्रभो दिशतु ते दया मम जयम् ॥ ९४ ॥
ध्रुवस्मृतिधरे मयि स्तुतिकरे
पदाब्जसुहृदि प्रकाशितहृदि ।
जगत्त्रयधरः शचीसहचरः
प्रपूर्णभरणां करोतु करुणाम् ॥९५॥
ममाभिलषितं प्रसिध्यतु न वा
मनः शममितं प्रतृप्यतु न वा ।
जहामि न बहु प्रकृष्टकरणं
दयाजलनिधेस्तवेन्द्र चरणम् ॥ ९६ ॥
प्रसिद्ध्यति न चेत्तदिन्द्र विगुणं
प्रतृप्यति न चेत्तदक्षमगुणम् ।
नमत्सु न दया नते धुतभया
क्रियेत हसनं कदापि न मया ॥ ९७॥
स्वकीयहृदयं समर्पयति ते
नतः कविरयं सुपर्वनृपते ।
महस्तव विशत्विदं च भवनं
चरत्यनुदिनं यदिन्द्र भुवनम् ॥ ९८ ॥
मनुं तव दिवो महीश जपतां
स्तवं तव सतां सहाय पठताम् ।
कृपेन्द्र तव नः प्रमादरहितां
स्वदेशमवितुं ददातु पटुताम् ॥ ९९ ॥